|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.180. अध्यायः 180
Mahabharata - Vana Parva - Chapter Topics
वने मृगयार्थमटतो भीमस्य महताऽजगरेण ग्रहणम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
जनमेजय उवाच। 3-180-0x(2334)(22823)
कथं नागायुतप्राणो भीमो भीमपराक्रमः।
भयमाहारयत्तीव्रं तस्मादजगरान्मुने ॥ 3-180-1(22824)
पौलस्त्यं धनदं युद्दे य आह्वयति दर्पितः।
नलिन्यां कदनं कृत्वा निहन्ता यक्षरक्षसाम् ॥ 3-180-2(22825)
तं संससि भयाविष्टमापन्नमरिसूदनम्।
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ॥ 3-180-3(22826)
वैशम्पायन उवाच। 3-180-4x(2335)
बह्वाश्चर्ये वने तेषां वसतामुग्रधन्विनाम्।
प्राप्तानामाश्रमं राजन्राजर्षेर्वृषपर्वणः ॥ 3-180-4(22827)
यदृच्छया धनुष्पाणिर्बद्धखङ्गो वृकोदरः।
ददर्श तद्वनं रम्यं देवगन्धर्वसेवितम् ॥ 3-180-5(22828)
स ददर्श शुभान्देशान्गिरेर्हिमवतस्तदा।
देवर्षिसिद्धचरितानप्सरोगणसेवितान् ॥ 3-180-6(22829)
चकोरैरुपचक्रैशच् पक्षिभिर्जीवजीवकैः।
कोकिलैर्भृङ्गराजैश्च तत्र तत्र निनादितान् ॥ 3-180-7(22830)
नित्यपुष्पफलैर्वृक्षैर्हिमसंस्पर्शकोमलैः।
उपेतान्बहुलच्छायैर्मनोनयननन्दनैः ॥ 3-180-8(22831)
स संपश्यन्गिरिनदीर्वैडूर्यमणिसंनिभैः।
सलिलैर्हिमसंकाशैर्हंसकारण्डवायुतैः ॥ 3-180-9(22832)
वनानि देवदारूणां मेघानामिव वागुराः।
हरिचन्दनमिश्राणि तुङ्गकालीयकान्यपि ॥ 3-180-10(22833)
मृगयां परिधावन्स समेषु मरुधन्वसु।
विध्यन्मृगाञ्शरैः शुद्धैश्चचार स महाबलः ॥ 3-180-11(22834)
भीमसेनस्तु विख्यातो महान्तं दंष्ट्रिणं बलात्।
निघ्नन्नागशतप्राणो वने तस्मिन्महाबलः ॥ 3-180-12(22835)
मृगाणां सवराहाणां महिषाणां महाभुजः।
विनिघ्नंस्तत्रतत्रैव भीमो भीमपराक्रमः ॥ 3-180-13(22836)
स मातङ्गशतप्राणो मनुष्यशतवारणः।
सिंहशार्दूलविक्रान्तो वने तस्मिन्महाबलः ॥ 3-180-14(22837)
वृक्षानुत्पाटयामास तरसा वै बभञ्ज च।
पृथिव्याश्च प्रदेशान्वै नादयंस्तु वनानि च ॥ 3-180-15(22838)
पर्वताग्राणि वै मृद्गन्नादयानश्च विज्वरः।
प्रक्षिपन्पादपांश्चापि नादेनापूरयन्महीम् ॥ 3-180-16(22839)
वेगेन न्यपतद्भीमो निर्भयश्च पुनः पुनः।
आस्फोटयन्क्ष्वेडयंश्च तलतालांश्च वादयन्।
चिरसंबद्धदर्पस्तु भीमसेनो वने तदा ॥ 3-180-17(22840)
गजेनद्राश्च महासत्वा मृगेन्द्राश्च महाबलाः।
भीमसेनस्य नादेन व्यमुञ्चन्त गुहा भयात् ॥ 3-180-18(22841)
क्वचित्प्रधावंस्तिष्ठंश्च क्वचिच्चोपविशंस्तथा।
मृगप्रेप्सुर्महारौद्रे वने चरति निर्भयः ॥ 3-180-19(22842)
स तत्रमनुजव्याघ्रो वने वनचरोपमः।
पद्भ्यामभिसमापेदे भीमसेनो महाबलः ॥ 3-180-20(22843)
स प्रविष्टो महारण्ये नादान्नदति चाद्भुतान्।
त्रासयन्सर्वभूतानि महासत्वपराक्रमः ॥ 3-180-21(22844)
ततो भीमस्य शब्देन भीताः सर्पा गुहाशयाः।
अतिक्रान्तास्तु वेगेन जगामानुसृतः शनैः।
ततोऽमरवरप्रख्यो भीमसेनो महाबलः ॥ 3-180-22(22845)
स ददर्श महाकायं भुजङ्गं रोमहर्षणम्।
गिरिदुर्गे समापन्नं कायेनावृत्य कन्दरम् ॥ 3-180-23(22846)
पर्वताभोगवर्ष्माणं भोगैश्चन्द्रार्कमण्डलैः।
चित्राङ्गमङ्गजैश्चित्रैर्हरिद्रासदृशच्छविम् ॥ 3-180-24(22847)
गुहाकारेण वक्रेण चतुर्दंष्ट्रेण राजता।
दीप्ताक्षेणातिताम्रेण लिहानं सृक्विणी मुहुः ॥ 3-180-25(22848)
त्रासनं सर्वभूतानां कालान्तकयमोपमम्।
निःश्वासक्ष्वेडनादेन भर्त्सयन्तमिव स्थितम् ॥ 3-180-26(22849)
स भीमं सहसाऽभ्येत्य पृदाकुः क्षुधितो भृशम्।
जग्राहाजगरो ग्राहो भुजयोरुभयोर्बलात् ॥ 3-180-27(22850)
तेन संस्पृष्टगात्रस्य भीमसेनस्य वै तदा।
संज्ञा मुमोह सहसा वरदानेन तस्य हि ॥ 3-180-28(22851)
दशनागसहस्राणि धारयन्ति हि यद्बलम्।
इद्रलं भीमसेनस्य भुजयोरसमं परैः ॥ 3-180-29(22852)
स तेजस्वी तथा तेन भुजगेन वशीकृतः।
विम्फुरञ्शनकैर्भीमो न शशाक विचेष्टितुम् ॥ 3-180-30(22853)
नागायुतसमप्राणः सिंहस्कन्धो महाभुजः।
गृहीतो व्यजहात्सत्वं वरदानविमोहितः ॥ 3-180-31(22854)
स हि प्रयत्नमकरोत्तीव्रमात्मविमोक्षणे।
न चैनमशकद्वीरः कथंचित्प्रतिबाधितुम् ॥ 3-180-32(22855)
इति श्रीमन्महाभारते अरण्यपर्वणि आजगरपर्वणि अशीत्यधिकशततमोऽध्यायः ॥ 180 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-180-10 तुङ्गं कालीयकं च काष्ठविशेषौ ॥ 3-180-11 मरुधन्वसु गिरेर्निर्जलप्रदेशेषु। मरुर्ना गिरिधन्वनोरिति मेदिनी ॥ 3-180-24 पर्वतस्याभोगः विस्तीर्णता तत्परिमाणं वर्ष्म शरीरं यस्य तम् ॥ 3-180-27 पृदाकुः सर्पः ॥ 3-180-31 सत्वं बुद्धिम् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|